(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.23. अध्यायः 023
Mahabharata - Bhishma Parva - Chapter Topics
अर्जुनेन दुर्गास्तोत्रपठनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-23-0x(3999)(39420)
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ 6-23-1(39421)
श्रीभगवानुवाच। 6-23-2x(4000)
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः।
पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ॥ 6-23-2(39422)
सञ्जय उवाच। 6-23-3x(4001)
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥ 6-23-3(39423)
अर्जुन उवाच। 6-23-4x(4002)
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ 6-23-4(39424)
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ 6-23-5(39425)
कात्यायनि महाभागे करालि विजये जये।
शिखिपिच्छध्वजधरे नानाभरणभूषिते॥ 6-23-6(39426)
अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥ 6-23-7(39427)
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ 6-23-8(39428)
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ 6-23-9(39429)
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ 6-23-10(39430)
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ 6-23-11(39431)
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ 6-23-12(39432)
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ 6-23-13(39433)
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ 6-23-14(39434)
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
संध्या प्रभावती चैव सावित्री जननी तथा ॥ 6-23-15(39435)
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ 6-23-16(39436)
सञ्जय उवाच। 6-23-17x(4003)
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला। 6-23-17bअन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥ 6-23-17(39437)
देव्युवाच। 6-23-18x(4004)
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥ 6-23-18(39438)
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥ 6-23-19(39439)
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसंमतम् ॥ 6-23-20(39440)
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः ।
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥ 6-23-21(39441)
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा।
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥ 6-23-22(39442)
न भयं विद्यते तस्य सदा राजकुलादपि ।
विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥ 6-23-23(39443)
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते।
संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥ 6-23-24(39444)
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ।
एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥ 6-23-25(39445)
मोहादेतौ न जानन्ति नरनारायणावृषी ।
तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥ 6-23-26(39446)
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः ।
द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥ 6-23-27(39447)
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ॥ 6-23-28(39448)

इति श्रीमन्महाभरते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-23-1 हितार्थाय हितश्चासावर्थश्च हितार्थो जयस्तदर्थम् ॥ 6-23-3 सङ्ख्ये सङ्ग्रामे ॥ 6-23-4 इदं स्तोत्रं झo पुस्तक एव दृश्यते न दाक्षिणात्यकोशेषु क्वापि। हे सिद्धसेनानि सिद्धानां सेनाया नेत्रि। मन्दरे मन्दरवने वसतीति तथा। कुमारि अविप्लुतब्रह्मचर्ये जादिहीने इति वा। कालि कालशक्ते। कापालि कपालस्यायं पतिः कापालो रुद्रस्तत्पत्नि। कपिलः कृष्णपिङ्गलश्च वर्णविशेषौ तद्वति ॥ 6-23-5 भद्रं कल्याणं कालयति भक्तान् प्रति आनयति सा भद्रकाली। महती चासी काली च कालयित्री संहत्री कालरूपा महाकाली। चण्डि चण्डस्य कालान्तकस्य भार्ये। चण्डे प्रगल्भे। तारिणि संकटोत्तरणकर्त्रि । वरवर्णिनी सर्वसौभाग्यलक्षणोपेता स्त्री तद्रूपे ॥ 6-23-6 कात्यायनि कतगोत्रोद्भवे। महाभागे अतिपूज्ये। करालि क्रूरे। विजये विशिष्टो जयो यया सा। जयप्रदे इत्यर्थः। जये जयस्वरूपे ॥ 6-23-7 भट्टं अत्युत्कटं शूलं तदेव प्रहरणायुधं यस्याः। खेटकं चर्म ॥ 6-23-8 कौशिकि कुशिककुलोत्पन्ने। अट्टहासे प्रशस्तस्मिते। कोकं चक्रवत् वृत्तं वा रक्तबीजवधेऽसुरादानशीलं वा मुखं यस्याः सा कोकमुखा ॥ 6-23-9 हिरण्याक्षि पीतनेत्रे। विरूपाक्षि विविधरूपयुक्तनेत्रे ॥ 6-23-10 ब्रह्मण्ये यज्ञकर्मविप्रादिषु साध्वी ब्रह्मण्या। जातवेदसि अतीतज्ञे अतीतैर्ज्ञाते वा। जम्बूकटकेषु जम्बूद्वीपराजधानीषु चैत्येषु देवतालयेषु नित्यं सन्निहित आलयः स्थानं यस्याः सा तथा ॥ 6-23-13 रणाजिरे युद्धाङ्गणे ॥ 6-23-15 जम्भनी तन्द्रा । मोहिनी निद्रा। श्रीर्लक्ष्मीः विद्यातपोधनादिसमृद्धिरूपा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.